|
梵文心经
多谢LZ。也发一个梵文版心经,大家养养眼。
प्रज्ञापारमिताहृदयसूत्रम्
ओं नमो भगवत्यै आर्यप्रज्ञापारमितायै
आर्यावलोकितेश्वरो बोधिसत्त्वो गम्भीरायां
प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म।
पञ्च स्कन्धाः। तांश्च स्वभावशून्यान् पश्यति स्म।
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं
यद्रूपं सा शून्यता या शून्यता तद् रूपम्। एवमेव वेदनासंज्ञासंस्कारविज्ञानानि।
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा
अनुत्पन्ना अनिरुद्धा अमला अविमला अनूना अपरिपूर्णाः।
तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानं न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः न चक्षुर्धातुर् यावन् न मनोविज्ञानधातुः नाविद्या नाविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः।
तस्माच्छारिपुत्र अप्राप्तित्वाद्बोधिसत्त्वः प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः।
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः।
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः
प्रज्ञापारमितामाश्रित्यानुत्तरां
सम्यक्सम्बोधिमभिसम्बुद्धाः
तस्माज् ज्ञातव्यः प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो
ऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यात्वात्।
प्रज्ञापारमितायामुक्तो मन्त्रः
तद्यथा
ओं गते गते पारगते पारसंगते बोधि स्वाहा।
इत्यार्यप्रज्ञापारमिताहृदयं समाप्तम्।
[ 本帖最后由 mayavati 于 12.12.2007 16:26 编辑 ] |
|